November 28, 2021

विभूषणं मौनमपण्डितानाम्

1 min read

रामदेव! एतज्ज्ञातव्यंयद्वेदनेत्रञ्ज्योतिषन्नात्र संशयो यथा वेदस्य निर्मलञ्चक्षुज्योतिश्शास्त्रमकल्मषम्मुहूर्तविषयमधिकृत्य कोऽपि घाघोऽपि पूर्वमुक्तवान्।ग्रहाणाङ्गतिर्गणितस्तथा पृथिव्यतिरिरिच्यान्यग्रहाणान्दूर्याद्यनेकेविषया ज्यौतिषस्य। भारतीयो ज्योतिर्वित्सहस्रवर्षाणाङ्ग्रहस्थितिविषयेऽपि कथयितुन्दक्षोऽपित्वनुलोमविलोमकर्ता न कदापि। कपालभात्यधिकताकारणात्कपाललघुता यदा भवति तदेत्थमाचरणम्भवत्यधुनैलोपैथमात्रासेवनान्न शान्तिर्जातेति प्रतीयते।
रामदेवेन सर्वथा शास्त्रसम्मानङ्कर्तव्यमज्ञानदूरीकरणार्थं विदुषां शरणमत्यावश्यकमनर्गलप्रलापः प्रमत्तोन्मत्तमानवस्यपरिचयः। नासाऽपि भारतीयशास्त्रं मन्यते। गुरुहन्ता न कदापि शास्त्रं लभते। तथैव तान्न भुनक्ति श्रुतन्तत्। गात्रत्रोटनन्तथा वृत्ताकारकरणकलान्नटानाम्बालका अपि जानन्ति तान्तु कोऽपि योगी न गणयते। शरीरस्योपरि यदि काननं वर्धतेतदा तस्य स्वच्छतात्यावश्यक्यन्यथा तु मस्तिष्के तापर्वृद्धिर्भवतितथा मानव उन्मत्तो गण्यते।उन्मत्ततायाःप्रारम्भ एवमेव भवति नात्र संशयःशम्।।

73350cookie-checkविभूषणं मौनमपण्डितानाम्

1 thought on “विभूषणं मौनमपण्डितानाम्

Leave a Reply

Your email address will not be published. Required fields are marked *

Copyright © 2021 | Newsphere by AF themes.
error: Content is protected !!