November 27, 2021

मृतकेभ्यः विश्वश्रद्धांजलिदिने विशेषप्रार्थना

1 min read

(वार्ताहरः संदीप राजपूत)
सूरतम्। मार्गाकस्मिकघटनासु मृतकानां यात्रीणां कृते वैश्विकपटले अन्ताराष्ट्रियश्रद्धांजलि दिवसः गतसंध्यायाम् आयोजितः। वर्षस्य नवम्बरमासस्य तृतीये भानुवासरे जागतिकस्तरे श्रद्धांजलिप्रदानकार्यक्रमाः आयोज्यन्ते। सूरतजिला मार्गनियामक विभागेनापि गतरविवासरे जिलास्तरे सूरतीनागरिकाणां कृते जागृति-प्रकल्पस्यायोजनं कृतम्।
वनिताविश्रामप्रांगणे पुलिस-ट्राफिकशाखा-परिवहनकार्यालयेः, मनपा-निगमसेवकाः – चालकप्रशिक्षणसंघम् तथा 108 चलचिकित्साशाखायाः संयुक्ततत्वावधाने 320 मृतकानां स्मत्यर्थे सुमनानि अर्पितानि। मृतकानां स्मृत्यर्थे सुमनानि अर्पितानि। मृतकानां परिजनेभ्यः आर्थिकसहायता प्रदत्ता। ब्रजेश वर्मा, आरटीओ सहायकाः, संजय जोषी, एसटीविभागीयाः कर्मचारिणः उपस्थिताः आसन्।

150060cookie-checkमृतकेभ्यः विश्वश्रद्धांजलिदिने विशेषप्रार्थना

Leave a Reply

Your email address will not be published. Required fields are marked *

Copyright © 2021 | Newsphere by AF themes.
error: Content is protected !!