November 27, 2021

मुख्यमन्त्रिणा न्यायमण्डपे श्रुताः जनानां अभ्यर्थना

1 min read

(विश्वस्य वृत्तान्तः – सूरतम्)
गोरखपुर। मुख्यमन्त्रिणा योगिना आदित्यनाथेन स्वीयात्रायाः द्वितीयदविसे सोमवासरे प्रातः गोरक्षनाथमन्दिरस्थिते हिन्दूसेवाश्रमे आयोजिते न्यायमण्डपे जनानाम् अभियोगाः श्रुताः । अधिकारिभ्यः दिव्याङ्गानां समस्यानाम् अन्तर्गतम् आवासस्य, शौचालयस्य, विद्युतस्य च समस्यायाः समाधानं कारयितुं निर्देशः दत्तः । जिलाधिकारी विजयकिरणः आनन्दः उक्तवान् यत् लाभार्थीपरकानां सर्वासां योजनानां पात्रतां दर्शयता लाभप्रापणं सुनिश्चेतव्यम्। तेनोक्तं यत् धनेन विना कश्चिद् अभावग्रस्तस्य चिकित्सा न स्थगिष्यते, चिकित्सायाः व्ययस्य सम्भावितव्यवपत्रकं निर्मीत्वा प्रेषयतु । प्रत्येकस्य सहायता करिष्यते ।
अस्मिन् काले आरक्षिसम्बद्धप्रसङ्गानि तेन् एसएसपी डा. विपिनटांडा तु राजस्यसम्बद्धप्रसङ्गानां प्रार्थनापत्राणि जिलाधिकारी विजयकिरणः आनन्दः, यद्यपि अन्येभ्यः जनपदेभ्यः आगतानां प्रसङ्गानां पत्राणि आयुक्तः रविकुमारः एनजी चेत्यादिभ्यः प्रदत्तः । जनतादर्शनात् पूर्वं स्वगृहात् बहिः आगतः मुख्यमन्त्रिणा योगिना आदित्यनाथेन गोरक्षपुरमन्दिरे गुरूगोरक्षनाथस्य दर्शनं पूजनं च कृतम् । तदनन्तरं ब्रह्मलीनमहन्तः अवैद्यनाथस्य समाध्यां पूजनं कृत्वा आशीर्वादः स्वीकृतः । तदनन्तरं मन्दिरभ्रमणाय निर्गतः । तेन गोशालायां अनुमानितः विंशतिनिमिषपर्यन्तं गोसेवा कृता । तदनन्तरं ब्रह्मलीनमहन्तः दिग्विजयनाथस्मृतिसभागारस्य निरीक्षणं कृतम् । स्वश्वानौ कालूं गुल्लूं च प्रति अपि स्नेहः कृतः ।

149940cookie-checkमुख्यमन्त्रिणा न्यायमण्डपे श्रुताः जनानां अभ्यर्थना

Leave a Reply

Your email address will not be published. Required fields are marked *

Copyright © 2021 | Newsphere by AF themes.
error: Content is protected !!