November 27, 2021

चिकित्साकेन्द्रं भवति अस्माकम् उत्तरप्रदेशः – योगी

1 min read

(विश्वस्य वृत्तान्तः – सूरतम्)
लखनऊ। मुख्यमन्त्रिणा योगिना आदित्यनाथेन रविवासरे अत्र उक्तं यत् केन्द्रसर्वकारस्य सहयोगेन उत्तरप्रदेशः चिकित्सालकेन्द्रं भवितुम् अग्रसरः अस्ति। रविवासरे लोकभवने आयोजिते एकस्मिन् अमारोहे तेनोक्तं यत् यस्मिन् प्रदेशे कोरोणामहामार्याः पूर्वं चिकित्सासुविधाः न इति समाने आसन् तस्मिन् प्रदेशे पञ्चसप्ततिजनपदानां सर्वकारि-चिकित्सालयेषु गहन-चिकित्साशय्याः, अशीति-सहस्राधिकैलक्षं शय्याः अपि च अष्टादशाधिकपञ्चशतं प्राणवायु-संयन्त्राणि स्थापितानि ।
सर्वेषु जनपदेषु वायुप्रवाहक-यन्त्रसदृशाः सुविधाः अपि उपलब्धाः कारिताः । त्रयस्त्रिंशत् चिकित्सा-महाविद्यालयाः निर्मीयन्ते येषु नवचिकित्सामहाविद्यालयाः आरम्भस्य स्थितौ आगताः।
मुख्यमन्त्रिणा योगिना आदित्यनाथेन अस्मिन्नवसरे लोकसेवायोगेन चितेभ्यः दशाधिकत्रिशताय विशेषज्ञ-चिकित्सकेभ्यः नियुक्तिपत्राणि प्रदत्तानि अपि च द्वितीयं पञ्चदश-बीएसएल–2 प्रयोगशालानां लोकार्पणं अपि कृतम् ।
एताः प्रयोगशालाः अमरोहा–बागपत–सम्भल–हरदोई–भदोही–चन्दौली–शामली–रामपुर–प्रतापगढ़–हापुड़–मुजफ्फरनगर–पीलीभीत–फरूर्खाबाद–सुलतानपुर–सन्तकबीर-नगर–चेत्यादिषु जनपदेषु सञ्चालिताः भविष्यन्ति।
मुख्यमन्त्रिणा उक्तं यत् कोरोणामहामार्याः आरम्भे अस्माकं पार्श्वे कापि चिकित्सासुविधाः न आसन् । अस्माभिः रोगिणां चिकित्सायै परीक्षणाय च बहिः प्रेषिष्यते स्म । परन्तु अधुना प्रदेशः चिकित्साकेन्द्रं भवितुं दिशि तीव्रतया वर्धयति । वर्तमानकाले प्रदेशः प्रतिदिनं चतुर्लक्षानां परीक्षणं कर्तुं सामर्थ्यं स्थापयति । षड्विंशतिजनपदाः एतादृशाः आसन् यत्र गहनचिकित्साकेन्द्रेषु एका अपि शय्या नासीत् । अद्य सर्वे पञ्चसप्ततिजनपदानां सर्वकारिचिकित्सालयेषु गहनचिकित्साशय्याः उपलब्धाः सन्ति अपि च प्रथमस्तरीय, द्वितीयस्तरीय, तृतीयस्तरीय चेत्यादिभ्यः रोगिभ्यः अशीतिसहस्राधिकैकलक्षं शय्याः कोरोणासङ्क्रमणात् योद्धुम् सर्वदा सिद्धाः भवन्ति । एतेषु चिकित्सालयेषु वायुप्रवाहकयन्त्रैः सह अन्याः सुविधाः अपि उपलब्धाः सन्ति । प्राणवायोः कृते अधुना कोऽपि जनपदः कशचिद् अन्यस्य जनपदस्य आश्रितः न भविष्यति । प्रदेशसर्वकारेण षड्मासेषु अष्टादशाधिकपञ्चशतानि प्राणवायुसंयन्त्राणि स्थापितानि । एकत्रिंशत. प्राणवायुसंयन्त्राणि अधुना इतोऽपि स्थापनीयानि ।
मुख्यमन्त्रिणा उक्तं यत् यूरोप, इङ्गलैण्ड, चीन चेत्यादिषु देशेषु पुनः कोरोणासङ्क्रमणस्य सङ्कटः आगतः । परन्तु अस्माकं उत्तरप्रदेशे कोरोणासङ्क्रमणस्य तृतीयलहर्याः कापि संशयः नास्ति । अस्माभिः तृतीयलहर्याः युद्धस्य योजना पूर्वमेव कृता । अस्माकं विश्वासः अस्ति स्वकीयेषु चिकित्सकेषु, स्वास्थ्यकर्मिषु, आशाकर्मिषु, आङ्गनबाड़ीकार्यकर्तृषु अपि च सर्वेषू कोरोणायोद्धृषु । मुख्यमन्त्रिणा उक्तं यत् वयं चिकित्सा-केन्द्रनिर्माणस्य पक्षे अग्रसराः स्मः । गतसप्ततिवर्षेषु प्रदेशस्य अन्ते केवलं द्वादशचिकित्सामहाविद्यालयाः आसन् अधुना सार्धचतुर्वर्षेषु एव त्रयस्त्रिंशत् चिकित्सामहाविद्यालयाः निर्मीयन्ते ।
एतेषु अष्ट एतादृशाः चिकित्सामहाविद्यालयाः सन्ति येषु एमबीबीएस–इत्यस्य शिक्षा अपि आरब्धा । तत्रैव नवचिकित्सामहाविद्यालयाः शीघ्रमेव आरब्धाः भविष्यन्ति अपि च सर्वेषु जनपदेषु विशेषज्ञचिकित्सकानां सुविधा प्राप्तुं शक्येत तन्निमित्तं नूतनविशेषज्ञचिकित्सकानां नियुक्तिः अपि आरब्धा।

149910cookie-checkचिकित्साकेन्द्रं भवति अस्माकम् उत्तरप्रदेशः – योगी

Leave a Reply

Your email address will not be published. Required fields are marked *

Copyright © 2021 | Newsphere by AF themes.
error: Content is protected !!